Bilva Ashtottara Shatanama Stotram

Bilva Ashtottara Shatanama Stotram

It is very important to recite this Bilvashtottarshatnam Stotram while worshiping Lord Shiva. Just as Lord Shiva loves Bhaang-Dhatura etc., similarly, Bilvapatra is also very dear to Bholenath. If any devotee offers even one Bilvapatra on Shivling with devotion, then the Lord becomes pleased with him. Therefore, if this stotra is recited while offering Bilvapatra, then its importance increases even more.

Bilva Ashtottarshat Naam Stotram Benefits

Bilvashtottarshatnam Stotram praises Lord Shiva in beautiful words. It is recited during Shiva Puja. The specialty of this hymn is that it uses simple words but at the same time has a pleasant effect on the ears when recited. Reciting the Bilvashtottarshatnam Stotram keeps the mind calm. Reciting this hymn brings happiness and prosperity.

Lord Shiva is praised in the Bilvashtottarshatnamastotram. It is recited during Shiva Puja. This hymn provides mental peace. Any devotee who worships Lord Shiva through this hymn receives the special blessings of Bholenath. It is beneficial to recite this hymn while offering Bilvapatra to the Shivling. So, let’s recite the Bilva Ashtottara Shatanama Stotram at Shri Mandir.

Bilvashtothara Stotra

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥1॥

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥2॥

सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् । सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥3॥

नागाधिराजवलयं नागहारेण भूषितम् । नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥ 4।।

अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् । चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ 5॥

त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् । विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥6॥

त्रिशूलधारिणं देवं नागाभरणसुन्दरम् । चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ 7॥

गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् । कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥ 8॥

शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् । सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥ 9॥

सच्चिदानन्दरूपं च परानन्दमयं शिवम् । वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥ 10॥

शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् । हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥11॥

अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् । ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥12॥

हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् । अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥13॥

पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् । नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥14॥

सुराश्रयं विषहरं वर्मिणं च वरूधिनम् महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥15॥

कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् । तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥16॥

दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् । अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥17॥

नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् । महापापसंहारं एकबिल्वं शिवार्पणम् ॥ 18॥

चूडामणीकृतविभुं वलयीकृतवासुकिम् । कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥19॥

कर्पूरकुन्दधवलं नरकार्णवतारकम् । करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥ 20॥

महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् । महापापहरं देवं एकबिल्वं शिवार्पणम् ॥21॥

भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् । वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥22॥

फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् । नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् ॥23॥

कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् । वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥24॥

सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् । मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥25॥

दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् । मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥26॥

सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् । निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥27॥

सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् । सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥28॥

सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् । सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥29॥

मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् । कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥30॥

तेजोमयं महाभीमं उमेशं भस्मलेपनम् । भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥31॥

स्वर्गापवर्गफलदं रघुनाथवरप्रदम् । नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥32॥

मञ्जीरपादयुगलं शुभलक्षणलक्षितम् । फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥33॥

निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् । तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥34॥

सर्वलोकैकपितरं सर्वलोकैकमातरम् । सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥35॥

चित्राम्बरं निराभासं वृषभेश्वरवाहनम् । नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥36॥

रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् । नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥37॥

दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् । नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥ 38॥

रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् । भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥ 39॥

वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् । पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥ 40॥

सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् । सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥ 41॥

नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् । विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥ 42॥

अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् । धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥ 43॥

गौरीविलाससदनं जीवजीवपितामहम् । कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥ 44॥

सुखदं सुखनाशं च दुःखदं दुःखनाशनम् । दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥ 45॥

सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् । अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥ 46॥

सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् । सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥ 47॥

जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् । जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥ 48॥

विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् । वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥ 49॥

गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् । जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥ 50॥

त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् । दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥ 51॥

कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् । कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥ 52॥

कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् । शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥ 53॥

जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् । पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥ 54॥

सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् । ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥ 55॥

मन्दारमूलनिलयं मन्दारकुसुमप्रियम् । बृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥ 56॥

महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् । सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ 57॥

बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् । परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ 58॥

युगाकारं युगाधीशं युगकृद्युगनाशनम् । परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ 59॥

धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् । कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ 60॥

सुरावासं जनावासं योगीशं योगिपुङ्गवम् । योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥ 61॥

उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् । भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥ 62॥

विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् । विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् ॥ 63॥

कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् । ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥ 64॥

लावण्यमधुराकारं करुणारसवारधिम् । भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥ 65॥

जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् । कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥ 66॥

शिवं शान्तं उमानाथं महाध्यानपरायणम् । ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ 67॥

वासुक्युरगहारं च लोकानुग्रहकारणम् । ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ 68॥

शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् । शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥ 69॥

शरणागतदीनार्तपरित्राणपरायणम् । गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥70॥

भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् । करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥ 71॥

क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् । व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥ 72॥

भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् । हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥ 73॥

दक्षंचामुण्डजनकं मोक्षदं मोक्षनायकम् । हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥ 74॥

महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् । वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥ 75॥

स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् । जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥ 76॥

रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् । रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥ 77॥

फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् । दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥ 78॥

नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् । मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥ 79॥

मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् । सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥ 80॥

निधनेशं धनाधीशं अपमृत्युविनाशनम् । लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् ॥ 81॥

भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् । कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् ॥ 82॥

घोरपातकदावाग्निं जन्मकर्मविवर्जितम् । कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥ 83॥

मातङ्गचर्मवसनं विराड्रूपविदारकम् । विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥ 84॥

यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् । यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥ 85॥

कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् । योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥ 86॥

महोन्नतमहाकायं महोदरमहाभुजम् । महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥ 87॥

सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् । महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् ॥ 88॥

समस्तजगदाधारं समस्तगुणसागरम् । सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥ 89॥

माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः । दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥ 90॥

तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे । प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥ 91॥

तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ 92॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ 93॥

तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा । पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् ॥ 94॥

अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् । मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ 95॥

सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् । साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ 96॥

दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् । सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् ॥ 97॥

चतुर्वेदसहस्राणि भारतादिपुराणकम् । साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ 98॥

सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् । तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥ 99॥

अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके । अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥ 100॥

काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ 101॥

अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा । त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् ॥ 102॥

दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम् । सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् ॥ 103॥

पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् । अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् ॥ 104॥

विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् । तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥ 105॥

त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत् । जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥ 106॥

अनेकदानफलदं अनन्तसुकृतादिकम् । तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥107॥

त्वं मां पालय सर्वत्र पदध्यानकृतं तव । भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥ 108॥

उमयासहितं देवं सवाहनगणं शिवम् । भस्मानुलिप्तसर्वाङ्गं एकबिल्वं शिवार्पणम् ॥ 109॥

सालग्रामसहस्राणि विप्राणां शतकोटिकम् । यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ 110॥

अज्ञानेन कृतं पापं ज्ञानेनाभिकृतं च यत् । तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ 111॥

अमृतोद्भववृक्षस्य महादेवप्रियस्य च । मुच्यन्ते कण्टकाघातात् कण्टकेभ्यो हि मानवाः ॥ 112॥

एकैकबिल्वपत्रेण कोटियज्ञफलं भवेत् । महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम् ॥113॥

फलश्रुति एककाले पठेन्नित्यं सर्वशत्रुनिवारणम् । द्विकाले च पठेन्नित्यं मनोरथफलप्रदम् । त्रिकाले च पठेन्नित्यं आयुर्वर्ध्यो धनप्रदम् । अचिरात्कार्यसिद्धिं च लभते नात्र संशयः ॥ 114॥

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । लक्ष्मीप्राप्तिश्शिवावासः शिवेन सह मोदते ॥ 115॥

कोटिजन्मकृतं पापं अर्चनेन विनश्यति । सप्तजन्मकृतं पापं श्रवणेन विनश्यति । जन्मान्तरकृतं पापं पठनेन विनश्यति । दिवारात्रकृतं पापं दर्शनेन विनश्यति । क्षणेक्षणेकृतं पापं स्मरणेन विनश्यति । पुस्तकं धारयेद्देही आरोग्यं भयनाशनम् ॥ 116॥

इति बिल्वाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Tridalam trigunakaram trinetram cha triyayudham. Trijanma Sinsaharaam Ekabilvam Shivaarpanam ॥1॥

Trishakhaih bilvapatraishch achchidraih komalaih shubhaih. Tav Pooja Karishyami Ekabilvam Shivarpanam ॥2॥

Sarvartailokyakartaram sarvatrailaokyapalanam. Sarvatrailokyahartaaran Ekabilvam Shivarpanam ॥3॥

Nagadhirajavalayam naagaharen bhushitam. Naagkundalasyuktam ekbilvam shivarpanam ॥ 4.

Akshamaladharam Rudram ParvatiPriyavallabham. Chandrashekharmishanam ekbilvam shivarpanam ॥ 5॥

Trilochanam Dashabhujam Durgadehardhadharinam. Vibhutyabhyarchitam devan ekbilvam shivarpanam ॥6॥

Trishuldharinam devan nagabharansundaram. Chandrashekharmishanam ekbilvam shivarpanam ॥ 7॥

Gangadharambikanatham Phanikundalamanditam. Kaalkaal Girisham Cha Ekabilvam Shivarpanam ॥ 8॥

Shuddhasphatik Sankasham Shitikantham Kripanidhim. Sarveshwaram Sadashantam Ekabilvam Shivaarpanam. 9॥

Sachchidanandarupam cha paranandamayam shivam. Vaagishwaran Chidakashan Ekabilvam Shivarpanam ॥ 10॥

Shipivishtam Sahasraksham Kailasachalvasinam. Hiranyabahun Senanyam Ekabilvam Shivarpanam ॥11॥

Arunam vamanam taram vasvatyam chaiva vasvatam. jyeshtam kanishtham gaurisham akbilvam shivparnam ॥12॥

Harikesham Sanandeesham Uchhairghoshham Sanatanam. Aghorrupkam Kumbham Ekabilvam Shivarpanam ॥13॥

Purjvavarjam yamyaam sukshamam taskaranayakam.Neelkantha Jagananyam Cha Ekabilvam Shivarpanam ॥14॥

Surashrayam Vishaharam Varminam Cha Varudhinam Mahasenam Mahaviram Ekabilvam Shivarpanam || 15 ||

Kumaram kushalam kupyaam vadaanyanch maharatham. Tauriyatauryaam cha devyaam cha ekabilvam shivarpanam ll16ll

Dashakarnam Lalataaksham Panchavaktran Sadashivam. Aseshpaapasaharam ekabilvam shivarpanam ll17ll

Neelkantham Jagadvandyam Dinanatham Maheshwaram. Mahapaapshaaranam Ekabilvam Shivaarpanam. 18॥

Chudamanirikat Vibhum Valayaikritavsukim. Kailasavasinam Bhimam Ekabilvam Shivarpanam ll19ll

Karpurkundadhavalam narakaarnavatarakam. Karunamritsindhun cha ekbilvam shivarpanam. 20॥

Mahadev Mahatmanam Bhujangadhipakkanam. Mahapaapaharam Devam Ekabilvam Shivaarpanam ॥21॥

Bhootesham Khandaparshum Vamdevam Pinakinam. Vame Shaktidharam Shrestham Ekabilvam Shivarpanam ॥22॥

Falekshanam virupakshanam srikantham bhaktavatsalam. Neellohitkhatwangam ekbilvam shivarpanam ॥23॥

Kailashvasinam bhimam hardam tripurantakam. Vrishankam Vrishabharudham Ekabilvam Shivarpanaam ll24

Samapriyam sarvamayam bhasmodhoolitvigraham. Mrityunjay Loknath Ekabilvam Shivarpanam ॥25॥

Daridryaduhkhaharanam Ravichandranalekshanam. Mrigapaani Chandramoulin Ekabilvam Shivaarpanam ll26ll

Sarvalokabhayakaram Sarvalokaikasaksinam Nirmalam Nirgunakaaram Ekabilvam Shivarpanam || 27 ||

Sarvatattvaatkam sambam sarvatattvavidurkam. Sarvatattva Swarupam Cha Ekabilvam Shivarpanam || 28 ||

Sarvalokaguru sthanum sarvalokavarpradam. Sarvalokaknetram cha ekbilvam  shivarpanam ॥29॥

Manmathodharanam Shaivam Bhavabhargam Paratikam. Kamalapriyapujya cha ekbilvam shivarpanam ॥30॥

Tejomayam mahabhimam umesham bhasmalepanam. Bhavrogvinasham cha ekbilvam shivarpanam ॥31॥

Swargaapvargafaldam Raghunathvarpradam. Nagarajasutakantam ekbilvam shivarpanam ॥32॥

Manjeerpadyugalam shubhalakshanalakshitam. Phanirajvirajan cha ekbilvam shivarpanam ॥33॥

Niramayam niradharam nissangam nishprapanchakam. Tejoroopam Maharaudram Ekabilvam Shivaarpanam ॥34॥

Sarvlokaikpitram sarvlokaikmataram. Sarvlokaiknatham cha ekbilvam shivarpanam ॥35॥

Chitambaram Nirabhasam Vrishabheshwarvahanam. Neelgrivam Chaturvaktran Ekabilvam Shivarpanam ॥36॥

Ratnakanchukaratnesham Ratnakundalamanditam. Navratnakiritam cha ekbilvam shivarpanam ॥37॥

Divyaratnaanguliswarnam kanthabharanbhushitam. Nanaratnamanimayam ekbilvam shivarpanam ॥ 38॥

Ratnanguliyavilsatkarshakhanakhprabham. Bhaktmanasgeham cha ekbilvam shivarpanam. 39॥

Vamangabhagvilasdambikaveekshanapriyam. Pundarikanibhakshan cha ekbilvam shivarpanam ॥ 40॥

Sampoornakamad saukhyam bhakteshtphalkaranam. Saubhagyadam Hitakaram Ekabilvam Shivarpanam. 41॥

Nanashastragunopetam sphurmangal vigraham. Vidyavidbhedrahitam Ekabilvam Shivarpanam. 42॥

Aprameygunadharam vedkradrupvigraham.

Dharmadharmapravruttam cha ekbilvam shivarpanam ॥ 43॥

Gaurivilasasadanam jeevjivpitamaham. Kalpantbhairavam shubhram ekbilvam shivarpanam ॥ 44॥

Sukhadam sukhnaasham cha dukhadam dukhanaashnam. Dukhavataram Bhadram Cha Ekabilvam Shivarpanam. 45॥

Sukharoopam roopnaasham sarvadharmaphalpradam. Atindriya Mahamayam Ekabilvam Shivarpanam. 46॥

Sarvapakshimrigaakaram sarvapakshimrigadhipam. Sarvapakshimrigadharam ekabilvam shivarpanam. 47॥

Jivdhyaksham jivvandh jivjivanraksham. Jeevkrijjivaharanam ekbilvam shivarpanam ॥ 48॥

Vishvaatmanam vishwavandyam vajratmavajrahastakam. Vajreshan Vajrabhushan Cha Ekabilvam Shivarpanam. 49॥

Ganadhipam ganadhyakshaam pralayanalnashakam. Jitendriya Veerbhadram Ekabilvam Shivarpanam. 50॥

Trimbakam mridam shooram arishadvarganasnam. Digambaram Kshobhanasham Ekbilvam Shivarpanam. 51॥

Kundendushakhdhavalam bhagnetrabhidujjvalam. Kalagnirudran Sarvajnaam Ekabilvam Shivaarpanam. 52॥

Kambugrivan kambukantham dhairyadam dhairyavardhaam. Shardulcharmavasanam ekbilvam shivarpanam ॥ 53॥

Jagadutpattihetun cha jagatpralayakaranam. Purnanandswaroopam cha ekbilvam shivarpanam. 54॥

Sargakesham mahattejan punyashravanakirtanam. Brahmandanayakam taran ekbilvam shivarpanam ॥ 55॥

Mandar Mool Nilayam Mandarkusumpriyam. Brindarakapriyataram ekbilvam shivarpanam ॥ 56॥

Mahendriya Mahabahun Vishwasparipurakam. Sulabhasulabham labhyam ekbilvam shivarpanam ॥ 57॥

Bijadaharam Bijrupam Nirbijam Bijvrudhidam। Paresham beejanasham cha ekbilvam shivarpanam ॥ 58॥

Yugakaram Yugadhisham Yugkrudamyugnashanm. Paresham beejanasham cha ekbilvam shivarpanam ॥ 59॥

Dhurjatin pingaljatan jatamandalmanditam. Karpur Gauram Gaurishan Ekabilvam Shivaarpanam. 60॥

Suravasam Janavasam Yogisham Yogipungavam. Yogadam Yoginam Singham Ekbilvam Shivarpanam. 61॥

Uttamanuttam tattvam andhakasursudanam. Bhaktakalpadrumastoam ekbilvam shivarpanam ॥ 62॥

Vichitramalyavasanam divyachandanacharchitam. Vishnubrhamadi vandyam cha ekbilvam shivarpanam ॥ 63॥

Kumaram Pitram Devam Shritchandrakalanidhim. Brahmashatrum Jaganmitram Ekabilvam Shivarpanam. 64॥

Lavanyamdhurakaram Karunarasavardhim. Sahasrarchin Ekabilvam Shivarpanam in the eyebrows. 65॥

Jatadharam pavakakshan vrikshesham bhuminayakam. Kamadam Sarvadagamya Ekabilvam Shivarpanam. 66॥

Shivam Shantam Umanatham Mahadhyanaparayanam. Gyanpradam Krittivasam Ekabilvam Shivaarpanam. 67॥

Vasukyurgaharam cha lokanugrahakaaranam. Gyanpradam Krittivasam Ekabilvam Shivaarpanam. 68॥

Shashankdhaarinam bhargam sarvalokaikashankaram. Shuddham Cha Shashwatam Nityam Ekabilvam Shivaarpanam. 69॥

Sharanagatdinartaparitraanparayanam. Gambhiram Cha Vashatkaram Ekabilvam Shivarpanam ॥70॥

Bhoktaram Bhojanam Bhojayam Jetaram Jitmansam. Karanam jishnu ekbilvam shivarpanam ॥ 71॥

Ksetrajnam Ksetrapalam ca parardhaikaprayojanam। Vyomakesham Bhimvesham Ekabilvam Shivarpanam. 72॥

Bhavagyaam tarunopetam chorishtam yamanashanam. Hiranyagarbha Hemangam Ekabilvam Shivaarpanam. 73॥

Dakshanchamundjanakam mokshadam mokshanayakam. Hiranyadam Hemarupam Ekbilvam Shivarpanam. 74॥

Mahashamshaannilayam hidden crystal clear. Vedasya Vedarupaam Cha Ekabilvam Shivarpanam. 75॥

Sthiram Dharmam Umanatham Brahmanyam Chaashrayam Vibhum. Jagannivasam prathammakebilvam shivarpanam. 76॥

Rudrakshmalabharanam Rudrakshpriyavatsalam. Rudrakshbhaktsanstommakebilvam shivarpanam. 77॥

Phanindravilsatkantha Bhujangabharanpriyam. Dakshadhvarvinasham cha ekbilvam shivarpanam ॥ 78॥

Nagendravilasatkarnam mahindravalayavritam. Munivandyam Munishresthmakebilvam Shivarpanam. 79॥

Mrigendracharmavasanam muninamekajivanam. Sarvdevadipujya cha ekbilvam shivarpanam. 80॥

Nidhaneshan Dhanadhishan Apamrityuvinashanam. Lingamurti Lingaatmam Ekabilvam Shivarpanam ॥ 81॥

Bhaktakalyanadam busytam vedavedantasanstutam. Kalpkritkalpanashm cha ekbilvam shivarpanam ॥ 82॥

Ghorpatakadavagnim janmakarmavivarjitam. Kapalmalabharanam Ekabilvam Shivarpanam. 83॥

Matangcharmavasanam viradrupavidarakam. Vishnukrantamantam cha ekbilvam shivarpanam ॥ 84॥

Yajnakarmaphaladhyaksham yajnavighnavinashkam. Yagyashan Yajnabhoktaram Ekabilvam Shivarpanam. 85॥

Kaaladhisham trikaljnyam wicked nigrahakarakam. Yogimanaspujya cha ekbilvam shivarpanam ॥ 86॥

Mahonnatamahakayam mahodarmahabhujam. Mahavaktran Mahavridham Ekabilvam Shivarpanam. 87॥

Sunetram Sullatam Cha Sarvbhimparakramam. Maheshvaram Shivtaram Ekabilvam Shivarpanam ॥ 88॥

Samastjagadadaharam samastagunasagaram. Satyam Satyagunopetam Ekbilvam Shivaarpanam ॥ 89॥

Maghkrishna Chaturdashyan Poojartham Cha Jagadguro. Durlabham Sarvadevanaam Ekabilvam Shivaarpanam. 90॥

Tatrapi durbham manyet nabhomasenduvasare. Pradoshkale pujas Ekabilvam Shivarpanam. 91॥

Tatakam Dhannikshepam Brahmasthapya Shivalayam Kotikanyamahadanam Ekabilvam Shivaarpanam ॥ 92॥

Darshanam Bilvavrikshasya Sparshanam Papanashanam. Aghorpaapsaharam Ekabilvam Shivarpanam. 93॥

Tulsibilvanirgundi jambiramalakan and. Panchbilvamiti khyatam ekbilvam shivarpanam. 94॥

Akhandbilvapatraishcha pujayennandikeshwaram. Muchyate sarvapapayabhyah ekbilvam shivarpanam. 95॥

Salankrita Shatavrtta Kanyakotisahasrakam. Empire Prithvidanam Cha Ekabilvam Shivarpanam ॥ 96॥

Dantyashvakotidanani Ashwamedha Sahasrakam. Savatsadhenudanani Ekabilvam Shivarpanam. 97॥

Chaturveda Sahasrani Bharatadipuranakam. Empire Prithvidanam Cha Ekabilvam Shivarpanam ॥ 98॥

Sarvaratnamayam Merum Kancanam divyavastrakam. Tulabhagam Shatavartam Ekbilvam Shivarpanam. 99॥

aṣṭōttaraśśataṁ bilvaṁ yō:’rcayēlliṅgamastakē |

atharvōktaṁ vadēdyastu ēkabilvaṁ śivārpaṇam || 100 ||

Astottarassatam bilvam Yo rayellingamastake |

Atharvoltam vadedyastu Ekabilvam Shivarpanam 100॥

Kashi Kshetra Nivasam Cha Kalbhairavadarshanam. Aghorpaapsaharam Ekabilvam Shivarpanam. 101॥

Astottarasataslokaih stotradyaih pujayedyatha। Trisandhyam Mokshamapnoti Ekabilvam Shivarpanam. 102॥

Dantikotisahasraanaam bhuh hiranyasahasraakam. Sarvakratumayam punyaam ekabilvaam shivarpanam. 103॥

Putraputradikam bhogam bhuktva chaatra yathepsitam. Ante Cha Shivasayujyam Ekbilvam Shivarpanam. 104॥

Viprakotisahasranaam vividhanaaccha yatphalam. Tatphalam prapnuyatsatyaam ekbilvam shivarpanam ॥ 105॥

Tvannamkirtanam tattvam tavapadambu yah pibet. Jeevanmuktobhavennityam ekbilvam shivarpanam. 106॥

anēkadānaphaladaṁ anantasukr̥tādikam |

Satarhnaphaladam Anantasukrtadikam | Tirtha Yatraakhilaam Punyaam Ekabilvam Shivaarpanam ॥107॥

Tvam maa palay everywhere paddhyankritam tav. Bhavanam Shankaram Nityam Ekabilvam Shivarpanam. 108॥

Umayasahitam devam savahanaganam shivam. Bhasmanuliptsarvangam ekbilvam shivarpanam. 109॥

Salgramasahasrani vipranam shatkotikam. Yagyakotisahasrani Ekabilvam Shivarpanam. 110॥

Agnanen kratam papam gnanenabhikratam cha yat | Tatsarvam Nashmayatu Ekbilvam Shivarpanam. 111॥

Amritodbhvavrikshasya Mahadevapriyasya Ch. Muchyante kantakaghataat kantkebhyo hi manvah. 112॥

Akekbilvapatren kotiyajnaphakam Bhavet. Mahadevasya pujaartham ekbilvam shivarpanam ॥113॥

Falashruti ekaale pathhennityam sarvashatrunivaranam. Dwikale cha pathhennityam manorathaphalpradam. 

Trikale cha pathhennityam ayurvardhyo dhanpradam. Achiratkaryasidhhim Cha labhate natra samsayam॥ 114॥

Ekakalam, dvikalaam or trikaalam yah pathennarah. Lakshmipraptishshivaavasah modate with shiven. 115॥

Kotijanmkritam sin archanen vinashyati. Saptjanmakritam sin sravanen vinashyati. Janmantarkritam sin padanen vinasyati. Divaratrakrtam papam darsanena vinasyati. Kshanekshanekritam sin smaranen vinashyati. Pustak Dharayeddehi Arogyaam Bhayanashanam. 116॥

Iti Bilvashtottarshatanamastotram Sampoornam ॥